Sahityapedia
Sign in
Home
Your Posts
QuoteWriter
Account
13 Mar 2022 · 1 min read

नूपुरम्

नूपुरम्

न प्रतीयते आभूषणमिव
नूपुरम्,
प्रतिपलं प्रतिपदं वा प्रतीयते पर्याय:
बन्धनस्य,
यत् स्नेहेन स्थापितमस्ति नारीचरणेषु।

अवरोद्धुं तस्या: गतिं
सीमितुं तस्या: स्वाधीनम्,

नोल्लंघ्येत् सा गृहद्वारं
न तिष्ठेत् पुरुषाग्रे,

बन्धनस्य आकर्षकं नाम
नूपुरम्।

विनोद-सिल्ला

( अनुवादकः – डॉ. चमनलाल: )

Loading...