कालिदासस्य काव्यवैशिष्ट्यम्
कालिदासस्य काव्यवैशिष्ट्यम् ————————————- मनोहरकथागुम्फनमाधुरीधुरीणानां कोमलकान्तपदावलिविन्यासानां भारतीय कवीन्द्राणां गणना प्रसंगे अद्यापि कविकुलचूड़ामणिः कालिदास एकः कनिष्ठिकामधितिष्ठति इत्यत्र नास्ति सन्देहकणिकाऽपि।अद्यापि च अनामिका तत्तुल्यकवेरभावाद् सार्थवती बभूव। कालिदास संस्कृतसाहित्यमहाम्बरं विद्युच्चाकचक्यमिव चमच्चकार।अस्य कवितल्लजस्य पूर्ण पक्त्रिमतया प्रदीप्ता...