कालिदासस्य काव्यवैशिष्ट्यम्
कालिदासस्य काव्यवैशिष्ट्यम्
————————————-
मनोहरकथागुम्फनमाधुरीधुरीणानां कोमलकान्तपदावलिविन्यासानां भारतीय कवीन्द्राणां
गणना प्रसंगे अद्यापि कविकुलचूड़ामणिः कालिदास एकः कनिष्ठिकामधितिष्ठति इत्यत्र नास्ति सन्देहकणिकाऽपि।अद्यापि च अनामिका तत्तुल्यकवेरभावाद् सार्थवती बभूव। कालिदास संस्कृतसाहित्यमहाम्बरं विद्युच्चाकचक्यमिव चमच्चकार।अस्य कवितल्लजस्य पूर्ण पक्त्रिमतया प्रदीप्ता प्रतिभा एव अत्र कारणम्। स महाकाव्येषु, गीतिकाव्येषु, नाट्यरचनासु सर्वेषु क्षेत्रेषु स्व प्रखरप्रतिभां परिचाययति।
कालिदासीय- काव्यस्य सर्वमहनीया विशेषता अस्ति- प्रसादगुणगुम्फिता, लालित्यसंवलिता सुपरिष्कृता शैली।कालिदासेन सर्वेग्रन्थाः वैदर्भीरीतिमाश्रित्य रचिताः। यथोच्यतेः- “ वैदर्भीरीतिसन्दर्भे कालिदासो विशिष्यते।”
कालिदासस्य भाषाऽतीव प्रांजला , अप्रलम्बसमासा, प्रवाहवाहिनि, सुमधुरमधुरा, सालंकारा, पात्रानुकूला च वरीवर्त्ति। कल्पना च पुनरतीव रमणीया, कलात्मिका, कोमला वर्ण्यविषयानुकूला। कालिदासीय काव्येषु पद्यानां रमणीयता, भावानां गाम्भीर्यं, स्वराणां सौष्ठवः, छन्दसां स्वरमाधुर्यं, रसानां च सरसपरिपाकः परिपूर्णविषयतामवगाहते। सम्पूर्ण मेघदूतकाव्यं सुललितमन्दाक्रान्ताछन्दस्सु विरचितम्। कालिदासस्य मन्दाक्रान्तां प्रशंसन् महाकवि क्षेमेन्द्रः प्राह—
“ सुवशा कालिदासस्य मन्दाक्रान्ता विराजिते ।
सदश्वदमकस्येव काम्बोजतुरगांगना॥”
कवीतरेभ्यः कवेरस्य वैशिष्ट्यमस्ति- व्यंजनावृत्या विशदवर्णन प्रवणता ।”शाकुन्तले” राजादुष्यन्तः प्रथमवारं शकुन्तलां पश्यति तदा स्वह्हृदगतभावानां विशद् वर्णनं न कृत्वा केवलं एकवाक्येन स्वहर्षातिरेकं प्रकटीकरोति। “अये लब्धं नेत्रनिर्वाणम्”। “दिवसापरिणामरमणीयत्वात्” कविः नैपुण्येन नाटकस्य सुखदावसानस्य सूचनां ददाति।हंसपदिकायाः गीतेन शकुन्तलायाः निकट प्रत्याख्यानं सूच्यते।
अन्यत्र च —
“एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती॥”
अत्र कश्चनालंकारविशेषो न व्यज्यते तथापि कविना कमलदलगणनावर्णनेन पार्वत्याः निसर्गलज्जायाः , आन्तरिकप्रेम्णः, आनन्दातिरेकसंगोपनप्रवृत्तेश्च यादृशं वर्णनमारचितं
तत्कस्य मनसि कौतूहलं न वहति ।
अलंकाराणां प्रयोगे कविः स्वसूक्ष्ममर्मज्ञतायाः परिचयं ददाति। तस्य कविता अत्यधिकालंकाराणां भारेण आक्रान्ताकामिनी इव मंदमंथरगत्या न गच्छति अपितु स्फुटचन्द्रविभावरीसदृशं स्वसहजसौन्दर्येण सहृदयहृदयसंवेद्या अस्ति। अलंकारणामुत्प्रेक्षोपमाश्लेषार्थान्तरन्यासादीनां सन्निवेश चारुतरः सम्पन्नः ।उपमा त्वस्य निसर्गसिद्धा प्रेयसीव प्रतीयते।”उपमाकालिदासस्ये”त्युक्तिरपि कात्स्नर्येन चरितार्थिता प्रतिभाति ।कालिदासीयोपमासु अन्तरा अन्तरा इतिवृत्तत्वमपि सौष्ठवेन संकेतितम्— सुरद्विषचान्द्रमसी सुधेव ।
काव्यमुखेन प्रकृतिचित्रणं हि कालीदासस्य वैशिष्ट्यं प्रत्याययति। तस्य प्रकृतिवर्णने निरीक्षणस्य नवीनता, सहृदयस्य सरसता, कल्पनायाः रमणीयता च दृश्यते। कालिदासेन प्रकृतेः सौन्दर्यसमुज्ज्वलपक्षस्य चित्रणं कृतम् । कालिदासः
चित्रचित्रणे यादृशी प्रयोगचातुरीमभिव्यनक्ति न तादृशीं कश्चिदन्यः । यथा— कार्या सैकतलीनहंसमिथुना……………. वामनयनं कण्डूयमानां मृगीम् ।
यद्यपि सर्वैरपि महाकविभिः स्वस्वकृतिषु प्रेम्णः सौन्दर्यस्य च विचित्रचित्रणं कृतं महतापाटवेन तथापि तेषु नैव कश्चित्कालिदासस्य कोटिमाटीकते। कालिदासस्य काव्येषु आभराणि अपि बहुशः प्राकृतिकानि , न जातु रत्नखचितस्वर्णमयानि। “अलकापुरीललनाकरपल्लवेषु लीलाकमलानि, केशपाशेषु कुन्दकुड्मलानि , कपोलपालिषु लोध्रपुष्पपरागरागः , कर्णयुगलेषु मृदूनि शिरीषकुसुमानि, कुन्तललतासु कदम्बकुसुमानि, अलंकरणत्वेनागींकृतानि स्फुटीकरोति कालिदासस्याप्रमेयं प्रकृतिप्रेमप्रपंचम् ।”
ऋतुसंहारे कविः प्रकृतिनटीं न तथोपलालयामास यथा कामिनीजनम्। कुमारसंभवे
प्राकृतिकमानवीयविभूत्याः साम्यं प्रतिष्ठापयति ।मेघदूते च पुनः कविः प्रकृतिमानवयोस्तादाम्यसम्बन्धं निबध्नाति महता पाटवेन । रघुवंशे च पुनः संस्पृशति कुमारसंभवतः किंचिदुत्तरं स्तरम्। कवेः सर्वोच्चप्रतिभायाः निदर्शनं, प्रकृतेः वर्णनस्य मार्मिकोद् घाटनं च शाकुनतले भवति ।
शृंगारे ललितोद्गारे च न कश्चिदन्यः कविः कालिदासस्य तुलां स्पृशति। शृंगारस्य द्वयोः पक्ष्योः- विप्रलम्भसंयोगयोः- मार्मिकमधुरचित्रणं कालिदासेन कृतम् । तस्य रचना शृंगारभूयिष्ठामपि क्वचिद् शिष्टतां न जहाति। कालिदासीय ग्रन्थेषु सर्वेषां रसानां पूर्णपक्त्रिम परिपाकोऽभवत् । अग्निवर्णस्य
विलासवर्णने श्रंगाररसस्य, रघु-अज- रामप्रभृतीनां युद्धप्रसंगेषु वीररसस्य, अजविलापे करुणरसस्य, वशिष्ठवाल्मीकिपुण्याश्रमवर्णने शान्तरसस्य च चित्रणं कस्य मनो न व्यामोहयति।
आकर्षकचरित्रचित्रणेऽपि कालिदासः निपुणोऽस्ति। दीपशिखां तुल्य इन्दुमत्याः, कृशांगयष्टिसीतायाः, सनतगात्री पार्वत्याः, तन्वी श्यामायक्षपत्न्याः, मनोज्ञावल्केनापि तन्वी शकुन्तलायाः सजीवचित्रणं अभवत् ।
प्रायशः कालिदासीयकाव्यस्य कूलंकषमालोचयन्तो विद्वज्जनाः केवलमेतस्य बाह्यालंकाराडम्बररूपं प्राकृतिकवर्णनात्मकमेव प्रशंसन्ति, तदेव चास्य वैशिष्ट्यत्वेनाभ्युपगच्छन्ति। किन्तु कोऽसौ रसः , कतमोऽसावलंकारः , को नामासौ गुणः यः खलु कालिदासीयकाव्येषु पूर्णपक्त्रिमतया पम्फुल्यमानो रसिकानां नयनानन्दकरो न भवति। किं बहुना—
“ अमृतेनेव संसिक्ता चन्दनेनेव चर्चिता ।
चन्द्रांशुभिरिवोद् घृष्टा कालिदासस्य भारती ॥”