Sahityapedia
Sign in
Home
Your Posts
QuoteWriter
Account
25 Sep 2021 · 1 min read

नमामि भारतवर्षम्

नमामि भारतवर्षं नमाम्यार्यावर्तम्।
चतुर्दिगन्तवहः पवनस्तव गायति शुभकीर्तिम् ।
नमामि भारतवर्षं नमाम्यार्यावर्तम्॥
अहर्निशं शशिदिवाकरौ गगने त्वां नमतः।
वन्दन्ते त्वां विश्वगुरुं नक्षत्रगणाः शतशः।
नृहृदयानि सहगर्वेण तव गायन्ति वृत्तम्।
नमामि भारतवर्षं नमाम्यार्यावर्तम्॥
रणेऽरिणं घ्नन्ति कोटिशस्तव वीराः पुत्राः।
आपत्काले परपीडां धार्यन्ते मतिधीराः।
क्षणे क्षणे जीवन्ति जीवनं जनाः स्वर्गतुल्यम्।
नमामि भारतवर्षं नमाम्यार्यावर्तम्॥
षड्ऋतुभिः श्रृङ्गारं कुरुते सिन्धुभिः स्नानम्।
बह्वी भाषा धर्मा नाना दृश्यते एकत्वम्।
वन्दे तव चरणौ जननी भो मातृक्ष्मां नित्यम्।
नमामि भारतवर्षं नमाम्यार्यावर्तम्॥

अंकित शर्मा ‘इषुप्रिय’

Loading...