प्रिये छिन्दि
प्रिये छिन्धि मा मम हृदयं त्वम् एतादृशा मधुर हासेन।
चपलदृशा मा पश्य सस्मितं प्रेरयस्व प्रेम्णे हृदयेन।।
किसलयाधरे स्निग्धकपोले कुञ्चितकेशे बध्दोहम्।
तव दर्शनं विनाहं क्षणमपि यास्याम्यत्र ब्रूहि कथम्।।
कथं भेद्यते नीरवचित्तं ज्योत्स्नावत्त्वन्मुखचन्द्रेण।
चपलदृशा मा पश्य सस्मितं प्रेरयस्व प्रेम्णे हृदयेन।।
तव लावण्यं खलून्मादकं पुन: पुना आकर्षति माम्।
भ्रमरोहम् त्वं कुसुमपरागश्चाभिलषेनुदिनमहं त्वाम्।।
तृप्तिमेष्यति प्रेमपिपासा अधराभ्यामथ भुजपाशेन।।
चपलदृशा मा पश्य सस्मितं प्रेरयस्व प्रेम्णे हृदयेन।।
मुष्टिग्राह्या कटिस्त्दीया गजगामिनि भोः कमनीये।
एहि मां निकषा अयि सुभगे! वस मम हृदये रमणीये।।
प्राणप्रिये, त्वमसि सर्वस्वम् ‘इषुप्रियं’ पश्य स्नेहेन।
चपलदृशा मा पश्य सस्मितं प्रेरयस्व प्रेम्णे हृदयेन।।
अंकित शर्मा ‘इषुप्रिय’