गज्जलिका
का मे उरं मुषित्वा, क्षोभयति खलु माम्।
का स्मृत्यामेति, स्तम्भयति मम गाम्।।१।।
पिबन् सुधां प्रेम्णोऽहं, तथाप्यतृप्तोऽस्मि।
दग्धरुरस्य व्यथामथ, वदतु वदानि काम्।।२।।
अंतस्थः तिमिरस्य ,शरद्चन्द्रवत् या।
करोति प्रीत्या नाशं दृष्ट्यां वासं याम्।।३।।
श्वासे यस्या सुरभिः स्वजते आत्मानं।
पश्यामि सर्वत्र खञ्जननयनां ताम्।।४।।
वचने वार्तालापे कार्ये सा सर्वत्र।
नात्मनः बोधं मे सर्वं हि तस्याम्।।५।।
सरितावन्मम हृदयं नेत्रसागरे याति।
यौवनजलेऽभिषिक्ता मे प्रत्यावस्थां।।६।।
मोहाधरयोः च लटपाशे बध्दोऽहं।
मुक्तिर्लभामि न कष्टमिदं मधुरम्।।७।।
अंकित शर्मा ‘इषुप्रिय’